|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.44. अध्यायः 044
Mahabharata - Shalya Parva - Chapter Topics
विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम्॥ 1 ॥ इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम्॥ 2 ॥ बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम्॥ 3 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-44-0x(5190)(62630)
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत्॥ 9-44-1(62631)
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते॥ 9-44-2(62632)
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा॥ 9-44-3(62633)
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते॥ 9-44-4(62634)
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः॥ 9-44-5(62635)
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम्।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा॥ 9-44-6(62636)
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम॥ 9-44-7(62637)
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे॥ 9-44-8(62638)
ते तु सर्वे महाभागाः समागम्य महाव्रताः।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्॥ 9-44-9(62639)
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम्॥ 9-44-10(62640)
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः॥ 9-44-11(62641)
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः॥ 9-44-12(62642)
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्।
विमोचयामहे सर्वे शापादेतां सरस्वतीम्॥ 9-44-13(62643)
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा॥ 9-44-14(62644)
आराध्य पशुभर्तारं महादेवं जगत्पतिम्।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम्॥ 9-44-15(62645)
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती।
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा॥ 9-44-16(62646)
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा॥ 9-44-17(62647)
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः॥ 9-44-18(62648)
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्।
न च नः कामकारोऽयं यद्वयं पापकारिणा॥ 9-44-19(62649)
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः।
योषितां चैव पापेन योनिदोषकृतेन च॥ 9-44-20(62650)
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः॥ 9-44-21(62651)
`शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम्।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः'॥ 9-44-22(62652)
आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः॥ 9-44-23(62653)
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे॥ 9-44-24(62654)
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः॥ 9-44-25(62655)
ऋषय ऊचुः। 9-44-26x(5191)
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्।
सकेशमवधूतं च रुदितोपहतं च यत्॥ 9-44-26(62656)
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्॥ 9-44-27(62657)
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्॥ 9-44-28(62658)
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा।
अरुणामानयामास स्वां तनुं पुरुषर्षभ॥ 9-44-29(62659)
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा॥ 9-44-30(62660)
एतमर्थमभिज्ञाय देवराजः शतक्रतुः।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल॥ 9-44-31(62661)
जनमेजय उवाच। 9-44-32x(5192)
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान्।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्॥ 9-44-32(62662)
वैशम्पायन उवाच। 9-44-33x(5193)
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर।
यथा बिभेद समयं नमुचेर्वासवः पुरा॥ 9-44-33(62663)
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्॥ 9-44-34(62664)
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे॥ 9-44-35(62665)
एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः॥ 9-44-36(62666)
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात्॥ 9-44-37(62667)
एवं स शिरसा तेन चोद्यमानः पुनः पुनः।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्॥ 9-44-38(62668)
तमब्रवील्लोकगुरुररुणायां यथाविधि।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे॥ 9-44-39(62669)
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु॥ 9-44-40(62670)
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान्॥ 9-44-41(62671)
इह त्वं यज देवेन्द्र दद दानान्यनेकशः।
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे॥] 9-44-42(62672)
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत्॥ 9-44-43(62673)
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः॥ 9-44-44(62674)
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम॥ 9-44-45(62675)
वैशपायन उवाच। 9-44-46x(5194)
तत्राप्युपस्पृश्य बलो महात्मा
दत्त्वा च दानानि पृथग्विधानि।
अवाप्य धर्मं परमार्यकर्मा
जगाम सोमस्य महत्सुतीर्थम्॥ 9-44-46(62676)
यत्रायजद्राजसूयेन सोमः
साक्षात्पुरा विधिवत्पार्थिवेन्द्र।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव
होता यस्मिन्क्रतुमुख्ये महात्मा॥ 9-44-47(62677)
यस्यान्तेऽभूत्सुमहद्दानवानां
दैतेयानां राक्षसानां च देवैः।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो
यत्र स्कन्दस्तारकाख्यं जघान॥ 9-44-48(62678)
सैनापत्यं लब्धवान्दैवतानां
महासेनो यत्र दैत्यान्तकर्ता।
साक्षाच्चैवं न्यवसत्कार्तिकेयः
सदा कुमारो यत्र स प्लुक्षराजः॥ ॥ 9-44-49(62679)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-44-10 अध्यास्यामहे अध्यवसायं करिष्यामहे॥ 9-44-49 सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः। यत्र नक्षत्रकामः इति ङ.पाठः॥ 9-44-44 चतुश्चत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|